अथ श्रीदेवीकृत स्वामी वेङ्कटेश प्रातःस्तुती ।।

अथ श्रीदेवीकृत स्वामी वेङ्कटेश प्रातःस्तुती ।। Devi Krita Shri Venkatesha Pratah Stuti

सा द्वारदेशे श्रीनिवासस्य देवी स्वामिपुष्करिणीं ददृशे कैश्च सार्धम् ।
स्वामिन्हरे श्रीनिवासेति सा तं ब्रह्मादीनां तारकं सम्प्रदध्यौ ॥ १॥

देवैः सार्धं पालनार्थं च विष्णुरस्त्येव नित्यं पुष्करिण्यां जलेषु ।
अतः स्वामिपुष्करिणीति चाहुस्तत्र स्नानं कन्यकान्याश्च चक्रुः ॥ २॥

शुचिर्भूत्वा श्रीनिवासं च देवास्तप्तुं विविशुः शुद्धभक्त्या खगेन्द्र ।
यथोपदिष्टं गुरुणा तथैव चक्रे कन्याश्च सर्वं खगेन्द्र ॥ ३॥

तदा हरिर्दर्शयामास तस्यै स्वकं रूपं सुप्रतीके सुपूर्णम् ।
सा कन्यका श्रीनिवासस्य रूपं ददर्श भक्त्या स्वमनोऽभिरामम् ॥ ४॥

सुवर्णचित्रं वसनं वसानं सोष्णीषकं कञ्चुकं संदधानम् ॥ ५॥

श्रीमद् भागवत कथा, श्रीमद् भागवत गीता, श्रीमद् भगवत गीता, श्रीमद् भागवत गीता श्लोक, कथा भागवत, भागवत कथा भजन, भागवत कथा वाचक, जियर स्वामी बक्सर, जियर स्वामी प्रवचन, जियर स्वामी, जियर स्वामी बक्सर बिहार, जियर स्वामी आरा, जियर स्वामी का भजन, त्रिदंडी स्वामी बक्सर बिहार, त्रिदंदी स्वामी, bhagwat katha, shrimad bhagwat geeta, shrimad bhageat geeta shlok, shrimad bhagwat geeta bhajan, bhagwat katha vachak, Jiyar swami ji pravachan, Jiyar swami ji aara, भागवत कथा वाचक लिस्ट, कथा वाचक नाम लिस्ट, सम्पुर्ण भागवत कथा, top bhagwat katha vachak, katha vachak list, katha vachak name list, bhagwat katha vachak in vrindavan, vrindavan katha vachak, vrindavan ki katha, वृंदावन, वृंदावन के मंदिर, वृंदावन धाम, vrindavan bhagwat acharya, vrindavan shrimad bhagwat katha by swami dhananjay ji maharaj,

मृगोत्थमदगन्धेन सुरभीकृतदिङ्मुखम् ।
पुण्डरीकविशालाक्षं कंबुग्रीवं महाभुजम् ॥ ६॥

हेमयज्ञोपवीताङ्गं साक्षात्कन्दर्पसन्निभम् ।
जगन्मोहनसौन्दर्ये कोमलाङ्गं मनोहरम् ॥ ७॥

दृष्ट्वा च कन्या मुमुदे रोमाञ्चितसुगात्रका ॥ ८॥

तद्दर्शनाह्लादपरिप्लुताशया प्रेम्णाथ रोमाश्रुकुलाकुलेक्षणा ।
ननर्त देवी पुरतस्तस्य विष्णोः सा ध्वस्तदोषा परमादरेण ।
आनन्द मां पाहि सुखं च दत्त्वा मुकुन्द मां पाहि विमुक्तिदानात् ॥ ९॥

मां पाहि नित्यं ह्यरविन्दनेत्र प्रसन्नदृष्ट्या करुणासुधार्द्र ।
गोविन्द गोविन्द सुदुःखितां मां ज्ञानादिदानेन हि पाहि नित्यम् ॥ १०॥

जनार्दन त्वं हि सुदुष्टसंगान्कामादिरूपान्सततं वर्जयित्वा ।
हरे हरे मां सततं पाहि दैत्यान्समाहृत्य प्रबलान्विघ्नरूपान् ॥ ११॥

रमेश मां पाहि चतुर्मुखेश विश्वेश मां पाहि सरस्वतीश ।
रमेश मां पाहि निदानमूर्ते वृन्दारवृन्दैर्वन्दितपादपद्म ॥ १२॥

एवं तु नत्वा परमादरेण तुष्टाव विष्णुं परमं पुराणम् ।
लक्ष्म्या सदा येऽविदिता गुणाश्च असंख्याताः संति विष्णौ च वीश ॥ १३॥

तेषां सकाशादतिबाहुल्यसंख्या गुणा हरौ तेऽविदिता वै रमायाः ।
अतो हरे स्तवने क्वास्ति शक्तिस्तथापि यत्नं स्तवने ते करिष्ये ॥ १४॥

तव प्रसादाच्च रमाप्रसादाद्विधिप्रसादात्भारतीशप्रसादात् ।
रुद्रप्रसादात्स्तवनं ते करिष्ये तथापि विष्णो मयि शान्तिं कुरुष्व ॥ १५॥

यदि प्रसन्नोऽसि मयि त्वमीश त्वत्पादमूले देहि भक्तिं सदैव ।
त्वद्दर्शनाद्देव शुभाशुभं च नष्टं मदीयं ह्यशुभं च नित्यम् ॥ १६॥

त्वन्मायया नष्टमिमं च लोकं मदेन मत्तं बधिरं चान्धभूतम् ।
ऐश्वर्ययोगेन च यो हि मूको जातः सदा दीनगुर्वादिकेषु ॥ १७॥

मां देहि ऐश्वर्यमनुत्तमं त्वत्पादारविन्दस्य विरुद्धभूतम् ।
त्वं देव मे देहि सतां च संगं तव स्वरूपप्रतिपादकानाम् ॥ १८॥

पुत्रादीनामैहिकं वासुदेव दग्ध्वा च मे देहि पादारविन्दे ।
सद्वैष्णवे क्रियमाणं च कोपं दग्ध्वा च मे देहि पादारविन्दे ॥ १९॥

द्रव्यादिके क्रियमाणं च लोभं दग्ध्वा वै मे देहि पादाब्जमूले ।
पुत्रादिके क्रियमाणं च मोहं दग्ध्वा च मे देहि पादाब्जमूले ॥ २०॥

विद्यापुत्रद्रव्यजातं मदं च दग्ध्वा च मे देहि पादाब्जमूले ।
सद्वैष्णवासहमानस्वरूपं दग्ध्वा मात्सर्यं पाहि मां वेङ्कटेश ॥ २१॥

मन्त्रं च मे देहि निदानमूर्ते येनैव मे स्यात्तव संगश्च भूयः ।
नान्यं वृणे तव पादाब्जसंगात्तदेव मे देहि मम प्रसन्नः ॥ २२॥

इतीरितः श्रीनिवासः प्रसन्न उवाच देवो ह्यमृतस्त्रवं च ।
अत्रैव कन्ये प्रजपस्व मन्त्रं सुगोप्यरूपं परमादरेण ॥ २३॥

वक्ष्यामि मन्त्रं परमादरेण शृण्वद्य भक्त्या परमादरेण ।
अन्तःस्थमन्त्यं ह्याद्यसंयुक्तमेव सबिन्दु तद्वत्स्पर्शकाद्येन युक्तम् ॥ २४॥

एकारयुक्तं प्रथमान्तःस्थयुक्तं समत्रिकोणे चोष्मणा संयुतं च ।
तकारसक्तं स्पर्शमन्तः स्थयुक्तमाद्यन्त ओंकारसमन्वितं च ॥ २५॥

अनेन मन्त्रेण तवेप्सितं च भवेद्धि कन्ये नात्र विचार्यमस्ति ।
एवं स उक्त्वा श्रीनिवासो हरिस्तु प्रतीकवद्दर्शयामास रूपम् ॥ २६॥

नत्वा तु सा श्रीनिवासं च देवी उवास ह स्वामिसरःसमीपे ।
तस्मिन्दिने ब्राह्मणादींश्च सर्वान्संतर्पयामास च षड्रसान्नैः ॥ २७॥

सायङ्काले श्रीनिवासस्य दृष्ट्वा उत्साहरूपैः श्रीनिवासप्रतीकैः ।
साकं भक्त्या सम्प्रणम्याथ देवी प्रदक्षिणं श्रीनिवासस्य सुष्ठु ॥ २८॥

ननर्त देवी सुप्रतीकस्य चाग्रे लज्जां त्यक्त्वा जय देवेति चोक्त्वा ।
आनृत्तकाले च हरेश्च वक्त्रं दृष्ट्वा च दृष्ट्या तु परं ननर्त ॥ २९॥

ममाद्य गात्रं पावितं श्रीनिवास ममाद्य नेत्रं सफलं संबभूव ।
ममाद्य पादौ सार्थकौ चैव जातौ प्रदक्षिणं श्रीनिवासेश कृत्वा ॥ ३०॥

हस्तौ च मे सार्थकावद्य जातौ अग्रे कृत्वा हस्तशब्दं मुरारेः ।
एवं वदन्ती प्रीणयन्ती च देवं जगाम सा स्तोत्रवचः कदम्बैः ॥ ३१॥

देवास्तदा दुन्दुंभयो विनेदिरे तन्मस्तके पुष्पवृष्टिं च चक्रुः ।
तस्मिन्काले उभयोः पार्श्वयोश्च नृत्यं चक्रुर्देवतावारनार्यः ॥ ३२॥

तथैव तास्तलशब्दं च कृत्वा तदा सर्वा नमनं चापि चक्रुः ।
आनन्दशैले सर्वदा त्वित्थमेव सा सर्वदा नर्तयन्ती च वीन्द्र ॥ ३३॥

आनन्दमग्ना सापि देवी जगाम स्वमाश्रमं जैगिषव्येण सार्धम् ।
यात्रामेवं ये न कुर्वन्ति वीन्द्र तेषां च सर्वं निष्फलं चाहुरार्याः ॥ ३४॥

गत्वाश्रमं जैगिषव्येण सार्धं गुरुं त्वपृच्छद्वेङ्कटेशस्य मन्त्रम् ।
मन्त्रस्यार्थं ब्रूहि मे जैगिषव्य मन्त्रावृत्तिं कुर्वतां वै फलाय ॥ ३५॥

श्रीमद् भागवत कथा, श्रीमद् भागवत गीता, श्रीमद् भगवत गीता, श्रीमद् भागवत गीता श्लोक, कथा भागवत, भागवत कथा भजन, भागवत कथा वाचक, जियर स्वामी बक्सर, जियर स्वामी प्रवचन, जियर स्वामी, जियर स्वामी बक्सर बिहार, जियर स्वामी आरा, जियर स्वामी का भजन, त्रिदंडी स्वामी बक्सर बिहार, त्रिदंदी स्वामी, bhagwat katha, shrimad bhagwat geeta, shrimad bhageat geeta shlok, shrimad bhagwat geeta bhajan, bhagwat katha vachak, Jiyar swami ji pravachan, Jiyar swami ji aara, भागवत कथा वाचक लिस्ट, कथा वाचक नाम लिस्ट, सम्पुर्ण भागवत कथा, top bhagwat katha vachak, katha vachak list, katha vachak name list, bhagwat katha vachak in vrindavan, vrindavan katha vachak, vrindavan ki katha, वृंदावन, वृंदावन के मंदिर, वृंदावन धाम, vrindavan bhagwat acharya, vrindavan shrimad bhagwat katha by swami dhananjay ji maharaj,

जैगीषव्य उवाच ।

शृणुष्व भद्रे वेङ्कटेशस्य नाम्नस्त्वर्थं श्रुत्वा हृदये संनिधत्स्व ॥ ३६॥

विति ह्युत्तमवाची स्याद्येति ज्ञानमुदाहृतम् ।
ककारः सुखवाची स्याट्टेति चित्तमुदाहृतम् ॥ ३७॥

ईशत्वमात्मवाचि स्यादेवं ज्ञेयं तु कन्यके ।
पूर्णज्ञानं सुखं वित्तं व्याप्तत्वाद्व्यङ्कटाभिधः ॥ ३८॥

व्य (वे) मिन्द्रियादिकं प्रोक्तं व्यङ्गभूतं हरौ यतः ।
कटश्च समुदायार्थो व्यं (वें) कटश्चेन्द्रियौघकः ॥ ३९॥

स्वस्मिन्प्रेरयते यस्मात्तस्माद्व्यङ्कटनामकः ।
विषये प्रेषयेन्नित्यमतो व्यङ्कटनामकः ॥ ४०॥

विशिष्टज्ञानरूपत्वाद्व्येति मुक्ताः सदा स्मृताः ।
मुक्तानां च समूहस्तु व्यङ्कटेति प्रकीर्तितः ॥ ४१॥

सदा मुक्तसमूहानामीशत्वाद्व्यङ्कटाभिधः ।
लिङ्गदेहमतो जीवो व्यङ्कटेति समाहृतः ॥ ४२॥

लिङ्गानां चैव स्वामित्वाद्व्यङ्कटेशेति संज्ञितः ।
दैत्यानां च समूहास्तु ज्ञानादिविधुरा यतः ।
अतो दैत्यसमूहस्तु व्यङ्कटेति प्रकीर्तितः ॥ ४३॥

तेषां संहरणे ईशस्त्वतो व्यङ्कटनामकः ।
आनन्दस्य विरुद्धत्वात्कामक्रोधादयो गुणाः ॥ ४४॥

व्यङ्कटा इति सम्प्रोक्तास्तेषां नाशयिता प्रभुः ।
अतस्तु व्यङ्कटेशाख्य एवं ज्ञात्वा जपं कुरु ॥ ४५॥

एवं व्यङ्कटमाहात्म्यं श्रुत्वा देवी खगेश्वर ।
निद्रां चकार तत्रैव रात्रौ पित्रा सहैव च ।
ब्राह्मे मुहूर्ते चोत्थाय हृदि सस्मार कन्यका ॥ ४६॥

(व्यङ्कटेशस्य प्रातः स्तुतिः) ।

श्रीव्यङ्कटेशश्च नृसिंहमूर्तिः श्रीवरदराजश्च वराहमूर्तिः ।
श्रीरङ्गशायी च अनन्तशायी कुर्वन्तु सर्वे मम सुप्रभातम् ॥ ४७॥

श्रीकृष्णमूर्तिश्च गदाधरश्च श्रीविष्णुपादस्तु प्रयागवासः ।
नारायणः श्रीबदरीनिवासः कुर्वन्तु सर्वे मम सुप्रभातम् ॥ ४८॥

दामोदरो वै त्रिजगन्निवासः श्रीपाण्डुरङ्गश्च नृसिंहदेवः ।
श्रीरामदेवश्च अमोघवासः कुर्वन्तु सर्वे मम सुप्रभातम् ॥ ४९॥

श्रीधर्मपुत्रश्च नृसिंहमूर्तिः श्रीपिप्पलस्थश्च मुहल्लवासः ।
कोलानृसिंहः शूर्पकारस्थ सिंहः कुर्वन्तु सर्वे मम सुप्रभातम् ॥ ५०॥

चतुर्मुखश्चारुसरस्वती च स्वभारती शर्वसुपर्णशेषाः ।
उमामहेन्द्रश्च शचीमुखास्ताः कुर्वन्तु सर्वे मम सुप्रभातम् ॥ ५१॥

द्वारावती काशिकावन्तिका च प्रयागकाञ्च्यौ मथुरापुरी च ।
मायावती हस्तिमती पुरी च कुर्वन्तु सर्वे मम सुप्रभातम् ॥ ५२॥

भागीरथी चैव सरस्वती च गोदावरी सिन्धुकृष्णे च वेणी ।
कलिन्दकन्या यमुना च नर्मदा कुर्वन्तु सर्वे मम सुप्रभातम् ॥ ५३॥

वितस्तिकावेरिसतुङ्गभद्राः सुवञ्जरा भीमरथी विपाशा ।
सुताम्रपर्णी च पिनाकिनी च कुर्वन्तु सर्वे मम सुप्रभातम् ॥ ५४॥

स्वामिपुष्करिणी चैव सुवर्णमुखरी तथा ।
श्रीपाण्डवी तौंबरुश्च कपिला पापनाशनी ॥ ५५॥

गुरुर्वसिष्ठः क्रतुरङ्गिराश्च मनुः पुलस्त्यः पुलहश्च गौतमः ।
रैभ्यो मरीचिश्च्यवनश्च दक्षः कुर्वन्तु सर्वे मम सुप्रभातम् ॥ ५६॥

सप्तार्णवाः सप्त कुलाचलाश्च द्वीपाश्च सप्तोपवनानि सप्त ।
भूरादिकानि भुवनानि सप्त कुर्वन्तु सर्वे मम सुप्रभातम् ॥ ५७॥

श्रीमद् भागवत कथा, श्रीमद् भागवत गीता, श्रीमद् भगवत गीता, श्रीमद् भागवत गीता श्लोक, कथा भागवत, भागवत कथा भजन, भागवत कथा वाचक, जियर स्वामी बक्सर, जियर स्वामी प्रवचन, जियर स्वामी, जियर स्वामी बक्सर बिहार, जियर स्वामी आरा, जियर स्वामी का भजन, त्रिदंडी स्वामी बक्सर बिहार, त्रिदंदी स्वामी, bhagwat katha, shrimad bhagwat geeta, shrimad bhageat geeta shlok, shrimad bhagwat geeta bhajan, bhagwat katha vachak, Jiyar swami ji pravachan, Jiyar swami ji aara, भागवत कथा वाचक लिस्ट, कथा वाचक नाम लिस्ट, सम्पुर्ण भागवत कथा, top bhagwat katha vachak, katha vachak list, katha vachak name list, bhagwat katha vachak in vrindavan, vrindavan katha vachak, vrindavan ki katha, वृंदावन, वृंदावन के मंदिर, वृंदावन धाम, vrindavan bhagwat acharya, vrindavan shrimad bhagwat katha by swami dhananjay ji maharaj,

मान्धाता नहुषोऽम्बरीषसगरौ राजा नलो धर्मराट्-
प्रह्लादः क्रतुराड्विभीषणगयौ व्यासो हनूमानपि ।
अश्वत्थाम कृपावुमा द्रुपदजा श्रीजानकी तारका
मन्दोदर्यखिलाः प्रभातसुमहं कुर्वन्तु नित्यं हरे ॥ ५८॥

अश्वत्थस्य वनानि किं च तुलसीधात्रीवनानि प्रभो
पुन्नागस्य वनानि चंपकवनान्यन्यानि पुष्पाणि च ।
मन्दारस्य वनानि यानि च हरेः सौगन्धिकान्यप्यहो
नित्यं तानि दिशन्तु मत्प्रमुदितं श्रीवेङ्कटेश प्रभो ॥ ५९॥

एवं स्मृत्वा श्रीनिवासस्य देवी कृत्वा शौचं जैगिषव्येण साकम् ।
स्नातुं ययौ पुष्करिणीं हरेश्च स्नानं सम्यक्तत्र चकार देशे ।
सम्यग्जप्त्वा व्यङ्कटेशस्य मन्त्रमुवाच सा जैगिषव्यं गुरुं च ॥ ६०॥

इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे
देवी कृतवेङ्कटेशदर्शनतत्स्तुत्यादिवर्णनं नाम पञ्चविंशोध्यायः ॥

Sevashram Sansthan Silvassa

Contact to "LOK KALYAN MISSION CHARITABLE TRUST" to organize Shreemad Bhagwat Katha, Free Bhagwat Katha, Satsang. in your area. you can also book online.

Leave a Reply

Your email address will not be published. Required fields are marked *